|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.33. अध्यायः 033
Mahabharata - Virata Parva - Chapter Topics
गोपैर्दुतॄतरमाद्रुत्य विराटंप्रति सुशर्मणा गोगहणनिवेदनम् ॥ 1 ॥ विराटादिभिर्युद्धाय निर्गमोद्यमः ॥ 2 ॥ युधिष्ठिरेण विराटंप्रति स्वेषां युद्धकौशलनिवेदनेन भ्रातृभिः सह समराभियानम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-33-0x(3129)(29728)
ततस्तेषां महाराज तत्रैवामिततेजसाम्।
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥ 1 ॥ 4-33-1(29729)
व्यतीतः समयः सम्यग्विराटनगरे सताम्।
कुर्वतां तस्य कर्माणि वीराटस्य महीपतेः ॥ 2 ॥ 4-33-2(29730)
कीचके तु हते राजा विराटः परवीरहा।
परां संभावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे ॥ 3 ॥ 4-33-3(29731)
ततस्त्रयोदशस्वान्ते तस्य वर्षस्य भारत।
शुशर्मणा गृहीतं तु गोधनं तरसा बहु ॥ 4 ॥ 4-33-4(29732)
ततः शब्दो महानासीद्रेणुश्च दिवमस्पृशत्।
शङ्खदुन्दुभिघोषश्च भेरीणां च महास्वनः।
गवाश्वरथनागानां निश्वनश्च पदातिनाम् ॥ 5 ॥ 4-33-5(29733)
एवं तैस्त्वभिनिर्याय मत्स्यराजस्य गोधने।
त्रिगर्तैर्गृह्यमाणे तु गोपालाः प्रत्यषेधयन् ॥ 6 ॥ 4-33-6(29734)
अथ त्रिगर्ता बहवः परिगृह्य धनं बहु ।
परिक्षिप्य हयैः शीघ्रै रथव्रातैश्च भारत।
गोपालान्प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् ॥ 7 ॥ 4-33-7(29735)
ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः ।
गोपाला गोकुले भक्ता वारयामासुरोजसा ॥ 8 ॥ 4-33-8(29736)
परश्वथैश्च मुसलैर्भिण्डिपालैश्च मुद्गरैः।
गोपालाः कर्षणैश्चित्रैर्जघ्नुरश्वान्समन्ततः ॥ 9 ॥ 4-33-9(29737)
ते हन्यमानाः संक्रुद्धास्त्रिगर्ता रथयोधिनः ।
विसृज्य शरवर्षणि गोपानद्रावयन्बलात् ॥ 10 ॥ 4-33-10(29738)
हन्यमानेषु गोपेषु विमुखेषु विशांपते।
ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः ॥ 11 ॥ 4-33-11(29739)
जवेन महता चैव गोपालाः पुरमाव्रजन्।
विराटनगरं प्राप्य नरा राजानमब्रुवन् ॥ 12 ॥ 4-33-12(29740)
सभायां राजशार्दूलमासीनं पाण्डवैः सह।
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ॥ 13 ॥ 4-33-13(29741)
सद्भिश्च पण्डितैः सार्धं मन्त्रिभिश्चापि संवृतम् ।
दृष्ट्वा शीघ्रं तु गोपाला विराटमिदमब्रवन् ॥ 14 ॥ 4-33-14(29742)
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान्।
षष्टिं गवां सहस्राणि त्रिगर्ताः कालयन्ति ।
ता निवर्तय राजेन्द्र मा नेशुः पशवस्तव ॥ 15 ॥ 4-33-15(29743)
वैशम्पायन उवाच। 4-33-16x(3130)
श्रुत्वा तु वचनं तेषां गोपालानामरिंदमः।
स राजा महतीं सेनां मात्स्यानां समवाहयत्।
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥ 16 ॥ 4-33-16(29744)
राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे।
भानुमन्ति विवातानि सूपसेव्यानि भागशः ॥ 17 ॥ 4-33-17(29745)
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ।
उत्कृष्य पाशान्मौर्वीणां शूराश्चापेष्वयोजयन् ॥ 18 ॥ 4-33-18(29746)
दृढमायसगर्भं तु कवचं तप्तकाञ्चनम् ।
विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ॥ 19 ॥ 4-33-19(29747)
सर्वभारसहं वर्म कल्याणपटलं दृढम्।
शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ॥ 20 ॥ 4-33-20(29748)
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च।
मृष्टहाटकपर्यन्तं सूर्यदत्तोऽभ्यहारयत् ॥ 21 ॥ 4-33-21(29749)
दृढमायसगर्भं च श्वेतं रुक्मपरिष्कृतम्।
विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ॥ 22 ॥ 4-33-22(29750)
शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत्।
अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ॥ 23 ॥ 4-33-23(29751)
ततो नानातनुत्राणि स्वानिस्वानि महाबलाः।
युयुत्सवोऽभ्यनह्यन्त देवकल्पाः प्रहारिणः ॥ 24 ॥ 4-33-24(29752)
सोपस्करेषु शुभ्रेषु महत्सु च महारथाः ।
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ॥ 25 ॥ 4-33-25(29753)
सूर्यचन्द्रप्रतीकाशे मणिहेमविभूषिते।
महाप्रमाणं मत्स्यस्य ध्वजमुच्छ्रियते रथे ॥ 26 ॥ 4-33-26(29754)
ध्वजान्बहुविधाकारान्सौवर्णान्हेममालिनः।
यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ॥ 27 ॥ 4-33-27(29755)
रथेषु युज्यमानेषु कङ्को राजानमब्रवीत् ।
मया ह्यस्रं चतुर्वर्गमवाप्तमृषिसत्तमात् ॥ 28 ॥ 4-33-28(29756)
दंशितो रथमास्थाय पदं निर्याम्यहं गवाम्।
अयं च बलवाञ्छरो वललो दृश्यतेऽनघ ॥ 29 ॥ 4-33-29(29757)
गोसङ्ख्यमश्वबन्धं च संयोजय रथेषु वैः।
नैतेन जातु युध्द्येयुर्गवार्थमिति मे मतिः ॥ 30 ॥ 4-33-30(29758)
वैशम्पायन उवाच। 4-33-31x(3131)
अथ मात्स्योऽब्रवीद्राजा शतानीकं जघन्यजम्।
कङ्कश्च वललः सूदो दामग्रन्थिश्च वीर्यवान् ॥ 31 ॥ 4-33-31(29759)
तन्त्रिपालश्च गोसङ्ख्यो यथा ते पुरुषर्षभाः ।
शूराः सुवीराः पुरुषा नागराजवरोपमाः ।
युद्ध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥ 32 ॥ 4-33-32(29760)
एतेपामपि दीयन्तां रथा ध्वजपताकिनः।
कवचानि विचित्राणि दृढानि च लघूनि च ॥ 33 ॥ 4-33-33(29761)
प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ।
नेमे जातु न युद्ध्य्रेयुरिति मे धीयते मतिः ॥ 34 ॥ 4-33-34(29762)
वैशम्पायन उवाच। 4-33-35x(3132)
तच्छ्रुत्वा नृपतेर्वाक्यं शीघ्रं त्वरितमानसः।
शतानीकः स पार्थभ्यो रथान्राजन्समादिशत् ॥ 35 ॥ 4-33-35(29763)
सहदेवाय राज्ञे च भीमाय नकुलाय च।
तान्दृष्ट्वा सहसा सूता राजभक्तिपुरस्कृताः ॥ 36 ॥ 4-33-36(29764)
निर्दिष्टा नरदेवेन रथाञ्छीघ्रमयोजयन्।
कवचानि विचित्राणि नवानि च दृढानि च॥ 37 ॥ 4-33-37(29765)
विराटः प्रददौ यानि तेषामक्लिष्टकर्मणाम्।
तान्यामुच्य शरीरेषु दंशितास्ते महारथाः ॥ 38 ॥ 4-33-38(29766)
तरस्विनश्छन्नरूपाः सर्वशस्त्रविशारदाः ।
रथान्हेमपरिष्कारान्समास्थाय महारथाः।
पाण्डवा निर्ययुर्हृष्टा दंशिता राजसत्तम ॥ 39 ॥ 4-33-39(29767)
विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः।
चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ॥ 40 ॥ 4-33-40(29768)
दीर्घानां च दृढानां च धनुषां ते यथाबलम्।
उत्कृष्य पाशान्मौर्वीणां वीराश्चापेष्वयोजयन् ॥ 41 ॥ 4-33-41(29769)
ततः सुवाससः सर्वे वीराश्चन्दनरूषिताः ।
चोदिता नरदेवेन क्षिप्रमश्वानचोदयन् ॥ 42 ॥ 4-33-42(29770)
ते हया हेमसंच्छन्ना बृहन्तः साधुवाहिनः ।
चोदिताः प्रत्यदृश्यन्त पत्रिणामिव पङ्क्तयः ॥ 43 ॥ 4-33-43(29771)
भीमरूपाश्च मातङ्गाः प्रभिन्नकरटामुखाः।
स्वारूढा युद्धकुशलैर्महामात्राधिरोहिताः ॥ 44 ॥ 4-33-44(29772)
क्षरन्त इव जीमूताः सुदन्ताः षाष्टिहायनाः ।
राजानमन्वयुः पश्चात्क्रामन्त इव पर्वताः ॥ 45 ॥ 4-33-45(29773)
दृढायुधजनाकीर्णं रथाश्वगजसंकुलम् ।
तद्बलाग्रं विराटस्य शक्रस्येव तदा बभौ ॥ 46 ॥ 4-33-46(29774)
तं प्रयान्तं महाराज निनीषन्तं गवां पदम्।
विशारदानां वैश्यानां प्रकृष्टानां तदा नृप ॥ 47 ॥ 4-33-47(29775)
विंशतिस्तु सहस्राणि नराणामनुयायिनाम्।
अष्टौ रथसहस्राणि दश नागशतानि च ।
विंशच्चाश्वसहस्राणि मात्स्यानां त्वरितं ययुः ॥ 48 ॥ 4-33-48(29776)
तदनीकं विराटस्य शुशुभेऽतीव भारत।
वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा ॥ 49 ॥ ॥ 4-33-49(29777)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहाणपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|