(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.33. अध्यायः 033
Mahabharata - Virata Parva - Chapter Topics
गोपैर्दुतॄतरमाद्रुत्य विराटंप्रति सुशर्मणा गोगहणनिवेदनम् ॥ 1 ॥ विराटादिभिर्युद्धाय निर्गमोद्यमः ॥ 2 ॥ युधिष्ठिरेण विराटंप्रति स्वेषां युद्धकौशलनिवेदनेन भ्रातृभिः सह समराभियानम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-33-0x(3129)(29728)
ततस्तेषां महाराज तत्रैवामिततेजसाम्।
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥ 1 ॥ 4-33-1(29729)
व्यतीतः समयः सम्यग्विराटनगरे सताम्।
कुर्वतां तस्य कर्माणि वीराटस्य महीपतेः ॥ 2 ॥ 4-33-2(29730)
कीचके तु हते राजा विराटः परवीरहा।
परां संभावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे ॥ 3 ॥ 4-33-3(29731)
ततस्त्रयोदशस्वान्ते तस्य वर्षस्य भारत।
शुशर्मणा गृहीतं तु गोधनं तरसा बहु ॥ 4 ॥ 4-33-4(29732)
ततः शब्दो महानासीद्रेणुश्च दिवमस्पृशत्।
शङ्खदुन्दुभिघोषश्च भेरीणां च महास्वनः।
गवाश्वरथनागानां निश्वनश्च पदातिनाम् ॥ 5 ॥ 4-33-5(29733)
एवं तैस्त्वभिनिर्याय मत्स्यराजस्य गोधने।
त्रिगर्तैर्गृह्यमाणे तु गोपालाः प्रत्यषेधयन् ॥ 6 ॥ 4-33-6(29734)
अथ त्रिगर्ता बहवः परिगृह्य धनं बहु ।
परिक्षिप्य हयैः शीघ्रै रथव्रातैश्च भारत।
गोपालान्प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् ॥ 7 ॥ 4-33-7(29735)
ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः ।
गोपाला गोकुले भक्ता वारयामासुरोजसा ॥ 8 ॥ 4-33-8(29736)
परश्वथैश्च मुसलैर्भिण्डिपालैश्च मुद्गरैः।
गोपालाः कर्षणैश्चित्रैर्जघ्नुरश्वान्समन्ततः ॥ 9 ॥ 4-33-9(29737)
ते हन्यमानाः संक्रुद्धास्त्रिगर्ता रथयोधिनः ।
विसृज्य शरवर्षणि गोपानद्रावयन्बलात् ॥ 10 ॥ 4-33-10(29738)
हन्यमानेषु गोपेषु विमुखेषु विशांपते।
ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः ॥ 11 ॥ 4-33-11(29739)
जवेन महता चैव गोपालाः पुरमाव्रजन्।
विराटनगरं प्राप्य नरा राजानमब्रुवन् ॥ 12 ॥ 4-33-12(29740)
सभायां राजशार्दूलमासीनं पाण्डवैः सह।
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ॥ 13 ॥ 4-33-13(29741)
सद्भिश्च पण्डितैः सार्धं मन्त्रिभिश्चापि संवृतम् ।
दृष्ट्वा शीघ्रं तु गोपाला विराटमिदमब्रवन् ॥ 14 ॥ 4-33-14(29742)
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान्।
षष्टिं गवां सहस्राणि त्रिगर्ताः कालयन्ति ।
ता निवर्तय राजेन्द्र मा नेशुः पशवस्तव ॥ 15 ॥ 4-33-15(29743)
वैशम्पायन उवाच। 4-33-16x(3130)
श्रुत्वा तु वचनं तेषां गोपालानामरिंदमः।
स राजा महतीं सेनां मात्स्यानां समवाहयत्।
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥ 16 ॥ 4-33-16(29744)
राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे।
भानुमन्ति विवातानि सूपसेव्यानि भागशः ॥ 17 ॥ 4-33-17(29745)
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ।
उत्कृष्य पाशान्मौर्वीणां शूराश्चापेष्वयोजयन् ॥ 18 ॥ 4-33-18(29746)
दृढमायसगर्भं तु कवचं तप्तकाञ्चनम् ।
विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ॥ 19 ॥ 4-33-19(29747)
सर्वभारसहं वर्म कल्याणपटलं दृढम्।
शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ॥ 20 ॥ 4-33-20(29748)
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च।
मृष्टहाटकपर्यन्तं सूर्यदत्तोऽभ्यहारयत् ॥ 21 ॥ 4-33-21(29749)
दृढमायसगर्भं च श्वेतं रुक्मपरिष्कृतम्।
विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ॥ 22 ॥ 4-33-22(29750)
शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत्।
अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ॥ 23 ॥ 4-33-23(29751)
ततो नानातनुत्राणि स्वानिस्वानि महाबलाः।
युयुत्सवोऽभ्यनह्यन्त देवकल्पाः प्रहारिणः ॥ 24 ॥ 4-33-24(29752)
सोपस्करेषु शुभ्रेषु महत्सु च महारथाः ।
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ॥ 25 ॥ 4-33-25(29753)
सूर्यचन्द्रप्रतीकाशे मणिहेमविभूषिते।
महाप्रमाणं मत्स्यस्य ध्वजमुच्छ्रियते रथे ॥ 26 ॥ 4-33-26(29754)
ध्वजान्बहुविधाकारान्सौवर्णान्हेममालिनः।
यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ॥ 27 ॥ 4-33-27(29755)
रथेषु युज्यमानेषु कङ्को राजानमब्रवीत् ।
मया ह्यस्रं चतुर्वर्गमवाप्तमृषिसत्तमात् ॥ 28 ॥ 4-33-28(29756)
दंशितो रथमास्थाय पदं निर्याम्यहं गवाम्।
अयं च बलवाञ्छरो वललो दृश्यतेऽनघ ॥ 29 ॥ 4-33-29(29757)
गोसङ्ख्यमश्वबन्धं च संयोजय रथेषु वैः।
नैतेन जातु युध्द्येयुर्गवार्थमिति मे मतिः ॥ 30 ॥ 4-33-30(29758)
वैशम्पायन उवाच। 4-33-31x(3131)
अथ मात्स्योऽब्रवीद्राजा शतानीकं जघन्यजम्।
कङ्कश्च वललः सूदो दामग्रन्थिश्च वीर्यवान् ॥ 31 ॥ 4-33-31(29759)
तन्त्रिपालश्च गोसङ्ख्यो यथा ते पुरुषर्षभाः ।
शूराः सुवीराः पुरुषा नागराजवरोपमाः ।
युद्ध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥ 32 ॥ 4-33-32(29760)
एतेपामपि दीयन्तां रथा ध्वजपताकिनः।
कवचानि विचित्राणि दृढानि च लघूनि च ॥ 33 ॥ 4-33-33(29761)
प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ।
नेमे जातु न युद्ध्य्रेयुरिति मे धीयते मतिः ॥ 34 ॥ 4-33-34(29762)
वैशम्पायन उवाच। 4-33-35x(3132)
तच्छ्रुत्वा नृपतेर्वाक्यं शीघ्रं त्वरितमानसः।
शतानीकः स पार्थभ्यो रथान्राजन्समादिशत् ॥ 35 ॥ 4-33-35(29763)
सहदेवाय राज्ञे च भीमाय नकुलाय च।
तान्दृष्ट्वा सहसा सूता राजभक्तिपुरस्कृताः ॥ 36 ॥ 4-33-36(29764)
निर्दिष्टा नरदेवेन रथाञ्छीघ्रमयोजयन्।
कवचानि विचित्राणि नवानि च दृढानि च॥ 37 ॥ 4-33-37(29765)
विराटः प्रददौ यानि तेषामक्लिष्टकर्मणाम्।
तान्यामुच्य शरीरेषु दंशितास्ते महारथाः ॥ 38 ॥ 4-33-38(29766)
तरस्विनश्छन्नरूपाः सर्वशस्त्रविशारदाः ।
रथान्हेमपरिष्कारान्समास्थाय महारथाः।
पाण्डवा निर्ययुर्हृष्टा दंशिता राजसत्तम ॥ 39 ॥ 4-33-39(29767)
विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः।
चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ॥ 40 ॥ 4-33-40(29768)
दीर्घानां च दृढानां च धनुषां ते यथाबलम्।
उत्कृष्य पाशान्मौर्वीणां वीराश्चापेष्वयोजयन् ॥ 41 ॥ 4-33-41(29769)
ततः सुवाससः सर्वे वीराश्चन्दनरूषिताः ।
चोदिता नरदेवेन क्षिप्रमश्वानचोदयन् ॥ 42 ॥ 4-33-42(29770)
ते हया हेमसंच्छन्ना बृहन्तः साधुवाहिनः ।
चोदिताः प्रत्यदृश्यन्त पत्रिणामिव पङ्क्तयः ॥ 43 ॥ 4-33-43(29771)
भीमरूपाश्च मातङ्गाः प्रभिन्नकरटामुखाः।
स्वारूढा युद्धकुशलैर्महामात्राधिरोहिताः ॥ 44 ॥ 4-33-44(29772)
क्षरन्त इव जीमूताः सुदन्ताः षाष्टिहायनाः ।
राजानमन्वयुः पश्चात्क्रामन्त इव पर्वताः ॥ 45 ॥ 4-33-45(29773)
दृढायुधजनाकीर्णं रथाश्वगजसंकुलम् ।
तद्बलाग्रं विराटस्य शक्रस्येव तदा बभौ ॥ 46 ॥ 4-33-46(29774)
तं प्रयान्तं महाराज निनीषन्तं गवां पदम्।
विशारदानां वैश्यानां प्रकृष्टानां तदा नृप ॥ 47 ॥ 4-33-47(29775)
विंशतिस्तु सहस्राणि नराणामनुयायिनाम्।
अष्टौ रथसहस्राणि दश नागशतानि च ।
विंशच्चाश्वसहस्राणि मात्स्यानां त्वरितं ययुः ॥ 48 ॥ 4-33-48(29776)
तदनीकं विराटस्य शुशुभेऽतीव भारत।
वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा ॥ 49 ॥ ॥ 4-33-49(29777)

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहाणपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.